Shivoham: I Am Shiva !
Post date: Feb 20, 2012 4:03:40 AM
Today is Mahashivratri ! Listen to this wonderful chant of Shiva by Adi Shankaracharya.
मनो-बुध्दयहंकार-चित्तानिनाहं, न च श्रोत्रजिह्वे न च घ्राणनेत्रे
न वै व्योम भूमिर्न तेजो न वायुः चिदानन्दरूपः शिवोहं शिवोहम्
न वै प्राणसंज्ञा न वै पंचवायुः, न वा सप्तधातुर्न वा पंचकोषः.
न वाक्पाणि पादौ न चोपस्थ-पायुः चिदानन्दरूपःशिवोहं शिवोहम्
न मे रागद्वेषौ, न मे लोभमोहौ, मदो नैव मे नैव मात्सर्यभावः
न धर्मों, न चार्थो न कामो न मोक्षः चिदानन्दरूपः शिवोहं शिवोहम्
न पुण्यं न पापं न सौख्यं न दुःखं, न मंत्रो न तीर्थो न वेदा न यज्ञाः
अहं भोजनम् नैव भोज्यं न भोक्ता, चिदानन्दरूपः शिवोहं शिवोहम्
न मृत्युर्न शंका न मे जातिभेदः पिता नैव मे नैव माता न जन्म
न बन्धुर्न मित्रं गुरुनैव शिष्यः चिदानन्दरूपः शिवोहं शिवोहम्
अहं निर्विकल्पो निराकार-रूपो, विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम्
न चासंगतं नैव मुक्तिर्न बन्धः चिदानन्दरूपः शिवोहं शिवोहम्
- आदि शंकराचार्य